अंगहिं गिम्ह सुहच्छिइ तिलवण मग्गसिरु।
मुद्धिहिं मुहपङ्कअसरि आवासिउ सिसिरु॥ ११६॥
(एकस्मिन्नक्ष्णि श्रावणोऽन्यस्मिन् भाद्रपदो।
माघः महीतलस्रस्तरे गण्डस्थले शरत्॥
अङ्गे ग्रीष्मः सुखासिका तिलवने मार्गशीर्षः।
मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः॥)
नीहारजालमलिनः पुनरुक्तसान्द्राः कुर्वन् वधूजनविलोचनपक्ष्ममालाः।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांसुर्दिशांमुखमतुत्थयदुत्थितोऽद्रेः॥ ११७॥