सिद्धं हि साध्यायोपादीयत' इति प्रत्ययार्थोऽपि कर्ता प्रकृत्यर्थे क्रियायामेव न्यग्भवति। फलमपि न वाक्यार्थः सिद्धासिद्धविकल्पानुपपत्तेः। सिद्धस्य तावत् फलस्याभिधानमेव नास्ति, काम्यमानत्वेन निर्देशात्।
साध्यमानत्वपक्षे तु साक्षात् तत्सिद्धयवेदनात्।
व्यापार एव तन्निष्ठो वाक्यार्थ इति युज्यते॥ ७९॥
अत एव हि वाक्यार्थं भावनां प्रतिजानते।
यथोचितफला मंशत्रयसम्बन्धबन्धुराम्॥ ८०॥
भाव्यनिष्ठो हि भावकव्यापारो भावनेति।
सैष द्वादशभेदोऽर्थः क्रियादिः प्राक्प्रकीर्तितः।
वाच्यो विशेष्यः शब्दस्य प्रत्याय्यो ह्यभ्युपेयते॥ ८१॥