करणविशेषणं यथा—(कुसं. ५.२७)
मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना।
तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्तानमिवाकरोदपाम्॥ ५८॥
संप्रदानविशेषणं यथा—(कुसं. ३.१६)
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व।
योषित्सु तद्वीर्यनिषेकभूमिस्सैव क्षमेत्यात्मभुवोपदिष्टम्॥ ५९॥
अपादानविशेषणं यथा—(कुसं. ५.११)
विसृष्टरागादधरान्निवर्तितस्स्तनाङ्गारागारुणिताच्च कन्दुकात्।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥ ६०॥
अधिकरणविशेषणं यथा—(कुसं. ३.२७)