निगृह्य चक्रे नमुचिद्विषो बली य इत्थमस्वास्थ्यमहर्निशं दिवः॥ ६३॥
कृदनुप्रयोगार्थो यथा—(किराता ८.१६)
सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया॥ ६४॥
यथाविध्यनुप्रयोगार्थो यथा—(किराता. ८.१६)
स ते प्रियश्चेत् सुभगोऽपराधैर्विचिन्तितैरस्य फलं न किञ्चित्।
प्रियापराधो हि विचिन्त्यमानस्समूलकाषं कषतीव चेतः॥ ६५॥
तद्धितानुप्रयोगार्थो यथा—(किराता. १६.११)
परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति॥ ६६॥