भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 481 to 490 of 756 verses
कालाध्वभावदेशानामन्तर्भूत— क्रियान्तरैः।

सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते॥ ९७॥

(वाप. ३.७.६७)

सकर्मिकापि क्रिया द्रव्यादिकर्मण्येव निविशते, न कालादिकर्मणि, यथा मासमोदनं पचति, क्रोशमनुवाकमधीते।

आधारत्वमिव प्राप्तास्ते पुनर्द्रव्यकर्मसु।

कालादयो भिन्नकक्ष्या/कक्ष्यं यान्ति कर्मत्वमुत्तरम्॥ ९८॥

(वाप. ३.७.६८)

क्रियाविशेषणम् अप्राप्यम्, यथा सुखमभिधत्ते, दुःखं निर्वर्तयति, मन्दं गच्छति, शीघ्रमायाति।

कथं पुनरुपसर्जनादीनां निर्वर्त्यमानता ? यथा निर्वर्त्यमानस्य 'यथा ह्यसौ कटं निर्वर्तयति, एवं तद्‍गतभीष्मोदारादिकं तद्धर्ममपि इति। एवं शब्देऽपि। पक्वौदनो भुज्यत इति। अत्र तु पाकेनौदनो निर्वर्त्यते; केवलं सास्य शक्तिः; प्रधानभुजिक्रियाविषयकर्म— शक्तिसन्निधौ पक्‍त्युपसर्जनीभूताख्यातेन प्रधानशक्‍त्यभिधानेऽभिहितवत् प्रकाशते। पक्तुमोदनश्‍चिन्त्यत इत्यत्र पच्यर्थत्वात् चिन्तायाः यद्यपि पाकस्य वास्तवं प्रधानत्वं तथाऽप्याख्यातप्रत्ययेन प्राधान्यतश्‍चिन्ताभिधानात् पचिक्रियोपसर्जनं भवति। अतस्तद्विषया कर्मशक्तिः प्रधानशक्‍त्यभिधानेऽभिहितवद् भवति। एतेन कटः कर्तुमारभ्यते, ग्रामो गन्तुमिष्यते इत्यपि व्याख्यातम्।

ननु गमेर्ग्रामः, इषेरुभे कर्मणी, तत् कस्यात्रोपसर्जनता ? नैवम्; इषेरुभे कर्मणी इति यदुच्यते तत्सामर्थ्यप्रदर्शनपरमवगन्तव्यम्। इष्यते ग्रामः किं कर्तुम्? गन्तुम्, ग्रामो ग्राममिति वा। न पुनरिषेः युगपदुभे कर्मणी संभवतः। एवमहितेऽपि कटादिवदेव मासादीनामासनादिभिरभिनिर्वर्त्यमानता प्रतीयते। तथा हि वक्तारो भवन्ति इह स्थितोऽयं मासं निर्वर्तयतीति। एवं पचन् गोदोहम्, अधीयानः क्रोशं, स्वपन् कुरुन् इति कालभाव गन्तव्यानामेव कुरुक्रोशादीनां कर्मत्वम्। यदाह—

Showing 481 to 490 of 756 verses