भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 471 to 480 of 756 verses
दर्शनादनुमानाद्‌वा तत् प्राप्यमिति कथ्यते॥ ९४॥

(वाप. ३.७.५१)

तत्र निर्वर्त्ये विकार्यः प्राप्यधर्मस्स्वधर्मश्‍च विकार्ये प्राप्यधर्मस्स्वधर्मश्‍च, प्राप्ये तु स्वधर्म एव। कः पुनरसौ— (वाप. ३.७.५३)

आभासोप/सोऽवगमो व्यक्तिस्सोढत्वमिति कर्मणः।

विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः॥ ९५॥

निर्वर्त्यविकार्ययोस्तु निर्वृत्तिविकार्यावेव। यथोच्यते—

निर्वर्त्यादिषु तत् पूर्वमनुभूय स्वतन्त्रताम्।

कर्त्रन्तराणां व्यापारे कर्म संपद्यते पुनः॥ ९६॥ (वाप. ३.७.५४)

(निर्वर्त्यम्—६)

तत्र निर्वर्त्यम् 'उत्पाद्यं' प्रकाश्‍यमुपसर्जनं विशेषणं व्यवहितमप्राप्यं' च। तेषु— यदसदुत्पाद्यते तदुत्पाद्यम्, यथा संयोगं विधत्ते, सुखमुत्पादयति, विभागं कुर्वते, दुःखं जनयति। विद्यमानमेव यदावरणापायादाविर्भवति तत् प्रकाश्‍यम्, यथा शब्दं जनयति, पुत्रं सूयते, तैलं कुरुते, पयो दोग्धि। अप्रधानभूतमुपसर्जनम्, यथा कटं कर्तुमारभते, ग्रामो वासयितुमिष्यते, पक्‍त्वोदनो भुज्यते, पक्तुमोदनश्‍चिन्त्यते। स्वानुरक्तप्रत्ययजनकं विशेषणम्, यथा भीष्ममुदारं कटं करोति, महान्तमव्यक्तं शब्दमुच्चारयति, दीर्घायुषं गुणिनमात्मजं प्रसूते, चित्रमच्छपटं वयति। क्रियान्तरेण व्यवधानवद् व्यवहितम्, यथा मासमास्ते, गोदोहं पचति, क्रोशमधीते, कुरून् (गच्छन्) स्वपिति।

Showing 471 to 480 of 756 verses