भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 491 to 500 of 756 verses
कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्॥ ९९॥ (मभा. १.४.४१) इति।

अप्राप्यम्— यत्क्रियाविशेषणत्वात् क्रियावदेव निर्वर्त्यमानम्। तत्क्रियायाः कथमिति चेत्, पुरुषव्यापारसामान्याश्रयणात्। अप्राप्यत्वं पुनस्तस्य धात्वर्थाभिप्रायेण। न ह्यसौ धात्वर्थेन प्राप्यते; अपि तु पुरुषव्यापारेण। धात्वर्थस्य तु तत्र करणत्वम्। विश्वजिता यजेतेत्यादौ धात्वर्थनामधेयेभ्यो विश्वजिदादिभ्यः करणविभक्तिदर्शनादग्निष्टोमयाजी— त्यादिसिद्ध्यर्थ 'करणे यजः' (३.२.८५) इति च सूत्रारम्भात्। अग्निष्टोमादयो हि स्वर्गादिफलभावनायां करणम्।

(विकार्यं—६)

विकार्यम्— अविनाश्‍यं विनाश्‍यमीप्सितमनीप्सितमास्थितं कर्तृकर्म च। तत्र—

अविनाश्‍यं यथा— सुवर्णं कुण्डलीकरोति, काण्डं लुनाति, कान्तां कोपयति, प्रियं प्रसादयति।

विनाश्‍यं यथा— कुसूलं भिनत्ति, काष्ठं दहति, धानाः पिबति, उदपेषं पिनष्टि।

ईप्सितं यथा— स्त्रियं गच्छति, पयः पिबति।

अनीप्सितं यथा— चोरान् पश्‍यति, धनं त्यजति, विषं भक्षयति, अहिं लङ्घयति। कः पुनरेषां विकारः? प्रकृतेरन्यथात्वम्; न हि चोरादयो दर्शनादिविषया भवन्ति।

आस्थितं यथा— पन्थानं गच्छति, नदीं तरति, पर्वतमारोहति, गर्तमुत्तरति। कः पुनरन्यतोऽस्य भेदः ?। उच्यते—

त्यागरूपं प्रहातव्ये प्राप्ये संदर्शनादिके/संसर्गदर्शनम्।

Showing 491 to 500 of 756 verses