अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ९३ ॥
यथोपपत्तिच्छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम्।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसः परैः ॥ ९४ ॥
इति यावत्। अत्र हि—(माघ. १.४८)
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैस्समं पुनः।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ९५ ॥
इत्यादिः प्रकरणार्थः कल्पितोऽपि पुराणेषूपलम्भासंभवाच्च तथात्वेनावभासते।
निराभासं यथा—(किराता. १६.१)