ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः।
स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निव कारणानि ॥ ९६ ॥
इत्यत आरभ्य—(किराता. १६.१७)
इयं च दुर्वारमहारथानामाक्षिप्य कीर्ति महतां बलानाम्।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव तारापतिधाम्नि दीप्तिः ॥ ९७ ॥
इति यावत्। अत्र हि—(किराता. १६.२)
मदस्त्रुस्त्रतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः।
सिहष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवोत्क्षिपन्तः ॥ ९८ ॥
इत्यादिः प्रकरणार्थः तापसकिरातयुद्धवर्णनायामनाभासमानः काव्यकुशलेन कविनोहापोहद्वारेणोपकल्प्य कथ्यते।
(३) आकस्मिकं द्विधा सबीजं निर्बीजं च। तयोः