भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 481 to 490 of 689 verses
कामस्य पुष्पव्यतिरिक्तमस्‍त्रं बाल्यात् परं साथ वयः प्रपेदे ॥ ९० ॥

इत्यत आरभ्य—(कुसं. १.४९)

सर्वोपमाद्रव्यसमुच्‍चयेन यथाप्रदेशं विनिवेशितेन।

सा निर्मिता विश्वसृजा प्रयत्‍नादेकस्थसौन्दर्यदिदृक्षयेव ॥ ९१ ॥

इति यावत्। अत्र हि—(कुसं. १.३२)

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम्।

बभूव तस्याश्‍चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ९२ ॥

इत्यादेः प्रकरणार्थस्य पार्वतीरूपयौवनलावण्यवर्णनाद्यवगम्यते।

(२) कल्पितं द्विधा— साभासं निराभासं च। तयोः

साभासं यथा— (माघ. १.४२)

Showing 481 to 490 of 689 verses