भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 481 to 490 of 1013 verses
उपसर्गणां क्रियाविशेषणत्वे त्रती गतिः—

(१) वाचकत्वं, (२) द्योतकत्वम् (३) सहाभिधायकत्वञ्च। यथोच्यते—

स वाचको विशेषाणां संभवाद् द्योतकोऽपि वा।

शक्त्याधानाय धातोर्वा सहकारी प्रयुजयते ॥ ४२ ॥

वाप. २.१८९ तत्र—

यदा वाचकत्वं तदा धातोः प्रथममुपसर्गेण संबन्धः। यथा— प्रतिष्ठते, निराकरोति इति। यदा द्योतकत्वं तदा साधनेन। यथा— प्रपचति, निकर्षति इति। यदा सहाभिधायकत्वं तदा धातूपसर्गयोस्तुल्यकालं साधनेन संबन्धः। यथा— 'अधीते', 'अध्येति' इति। तदुक्‍तम्—

स्थादिभिः केवलैर्यत्र गमनादि न गम्यते।

तत्रानुमानाद् द्विविधात् तद्‍धर्मा प्रादिरूच्यते ॥ ४३ ॥

(वाप. २.१८७)

क्‍वचित् संभविनो भेदाः केवलैरभिदर्शिताः।

Showing 481 to 490 of 1013 verses