बुद्धिस्थादभिसम्बन्धात् तथा धातूपसर्गयोः।
अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥ ३९ ॥
अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम्।
धातूपसर्गयोः शास्त्रे, धातुरेव हि तादृशः ॥ ४० ॥
क्रियाविशेषाः संघातैः प्रक्रम्यन्ते क्वचित् तयोः।
तथाहि संग्रामयतेः सोपसर्गादटो विधिछ ॥ ४२ ॥ (वाप. २.१८१)
अतः अनुकामयत इत्यादौ धातोः प्रथममुपसर्गेण साधनेन वा सम्बन्धे न दोषः इति।