क्वचिद् 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५.२.३४) 'अकाबूतिलोमाभङ्गाभ्यो रजासि कटच्' (५.२.२९ वा);
क्वचिद् 'अवेः संघाते कटच् (५.२.२९ वा), दुग्धे सोढदूसमरीसच (४.२.३६वा) इति;
क्वचित् पशुनाभ्यः स्थाने गोष्ठच् (५.२.२९ वा), द्वित्वे गोयुगच् (५.२.२९ वा), 'षट्त्वे षड्गच्' (५.२.२९ वा), इति;
क्वचिद् 'भवने क्षेत्रे शाकटशाकिनौ' (५.२.२९ वा.), स्नेहे तैलच्' (५.२.२९ वा.);
क्वचिद् 'निष्फलतिलात् पिञ्जपेजौ' (४.२.३६ वा. ४.२.८९), 'वाचो व्याहृतार्थायां ठक्' (५.४.३५), इति;
क्वचिद् रूढितोऽर्थमनिर्दिश्यैव 'वेः शालच्छङ्कटचौ (५.२.२८), 'संप्रोदश्च कटच्' (५.२.२९), 'अवान् कुटारच्च' (५.२.३०), 'नेर्बिडज्—बिरीसचौ' (५.२.३२), 'इनच्पिटाच्चिकचि च' (५.२.३३), कचिकादेशश्च इति।
ननु च धातुः प्रथमं साधनेन सम्बध्यते, पश्चादुपसर्गेण।
यथेच्छसि तथास्तु। विशेष्यं हि पूर्वसिद्धं विशेषणसम्बन्धमनुभवति। विशेष्यश्च धात्वर्थः, क्रियारूप उपसर्गाणाम्। उक्तं च 'क्रियावचनो धातुः' (मभा १.३.१) इति। क्रिया च साध्यमुच्यते, साध्यं च साधनसम्बन्धमन्तरेण न स्यात्। तदुक्तम् —
प्रयोगर्हेषु सिद्धः सन् भेत्तव्योऽर्थे विशिष्यते।