भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 451 to 460 of 689 verses
कुमुदानि प्रबुध्यन्ते शतपत्राणि शेरते।

शकटं गाहते व्योम मातृमण्डलमुज्झति ॥ ८३ ॥

हन्तीति पलायत इत्यादौ त्ववस्थित एव हेतुहेतुमद्भाव इति न द्योत्यते; नन्वपूर्वं क्रियते पचति पठतीत्यत्रापि प्रसङ्गात्। एते तावदवध्यवधिमद्भावो यावदादौ समुच्‍चयादौ चादयश्‍च व्याख्याताः। तदेवं सूत्रकारस्य भाष्यकारस्य च दर्शने अस्ति क्रियायाः क्रियान्तरेण संबन्धः। वार्त्तिककारस्तु युष्मदस्मदादेशनिघाताद्यर्थम्, 'आख्यातं साव्ययकारकविशेषणं वाक्‍यम्' 'एकतिङ् वाक्‍यमिति अन्यदेव लौकिकात् पारिभाषिकं वाक्‍यलक्षणमारभते। न च तेन लौकिको व्यवहारस्सिध्यतीत्युपेक्ष्यते। तदुक्तम्—

निघातादिव्यवस्थार्थे शास्‍त्रे यत् पारिभाषिकम्।

साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥ ८४ ॥

(वाप. २.३)

एतेन भिन्नाभिन्नप्रवक्तृकानेकवाक्योपकल्पितैकवाक्‍यस्थानामपि क्रियाणां परस्परमभिसंबन्धो व्याख्यातः। स भिन्नप्रवक्तृकत्वे यथा—

कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्।

पुनरपि तदेव कथयसि मृतां तु कथयामि या श्वसिति ॥ ८५ ॥

अभिन्नवक्तृत्वे यथा—

Showing 451 to 460 of 689 verses