कुमुदानि प्रबुध्यन्ते शतपत्राणि शेरते।
शकटं गाहते व्योम मातृमण्डलमुज्झति ॥ ८३ ॥
हन्तीति पलायत इत्यादौ त्ववस्थित एव हेतुहेतुमद्भाव इति न द्योत्यते; नन्वपूर्वं क्रियते पचति पठतीत्यत्रापि प्रसङ्गात्। एते तावदवध्यवधिमद्भावो यावदादौ समुच्चयादौ चादयश्च व्याख्याताः। तदेवं सूत्रकारस्य भाष्यकारस्य च दर्शने अस्ति क्रियायाः क्रियान्तरेण संबन्धः। वार्त्तिककारस्तु युष्मदस्मदादेशनिघाताद्यर्थम्, 'आख्यातं साव्ययकारकविशेषणं वाक्यम्' 'एकतिङ् वाक्यमिति अन्यदेव लौकिकात् पारिभाषिकं वाक्यलक्षणमारभते। न च तेन लौकिको व्यवहारस्सिध्यतीत्युपेक्ष्यते। तदुक्तम्—
निघातादिव्यवस्थार्थे शास्त्रे यत् पारिभाषिकम्।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥ ८४ ॥
एतेन भिन्नाभिन्नप्रवक्तृकानेकवाक्योपकल्पितैकवाक्यस्थानामपि क्रियाणां परस्परमभिसंबन्धो व्याख्यातः। स भिन्नप्रवक्तृकत्वे यथा—
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्।
पुनरपि तदेव कथयसि मृतां तु कथयामि या श्वसिति ॥ ८५ ॥