भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 689 verses
संबोधनपदं यच्च तत्क्रियाया विशेषकम्।

व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ ८१ ॥

(वाप. २.५)

ननु च संबोधनपदस्य तिङ्न्तेनैकवाक्‍यता युज्यते, संबोधनं ह्याक्षिप्तक्रियापदं वर्तते। देवदत्त अभिमुखो भवेत्याभिमुख्ये हि युज्यते। तत्र देवदत्तेत्येतावत्यर्थस्य परिसमाप्तत्वात् संबोधनपदमेकं वाक्‍यम्, सोऽभिमुखीभूतः क्रियान्तरे नियुज्यते; व्रजेति तदाख्यातमेव द्वितीयम्; 'देवदत्त! व्रजानि' इत्यत्र तु क्रियान्तरनियोगोऽपि नास्तीति भिन्नवाक्‍यत्वमेव। तन्न, वाक्‍यलक्षणायोगात्। एवं ह्याहुः—

साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्।

कर्मप्रधानं गुणवदेकार्थं वाक्‍यमुच्यते ॥ ८२ ॥

(वाप. २.४)

एवं च ब्रुवतो यथोक्तलक्षणपदसमूहो वाक्‍यमित्यभिप्रायः, न च देवदत्तेति पदसमूहः; अथाभिमुखो भवेत्याक्षेपादस्य समूहभावः; तथापि साकाङ्क्षत्वादवाक्‍यत्वम्। न ह्यभिमुखीभावमात्रमेव कश्‍चिद् विधत्ते। किं तर्ह्यभिमुखीभावं विधाय क्रियान्तरे नियुङ्क्ते। अपि चाभिमुखो भवेत्यध्याह्रियमाणयापि क्रियया संबन्धं मन्यसे व्रजेत्युपात्तयापि न मन्यस इत्यहो माध्यस्थ्यम्। किंचाभिमुखो भवेत्ययमपि नियोगः, तत्रानभिमुखस्य नियोक्तुमशक्यत्वात्। अभिमुखीकरणाय क्रियान्तराध्याहारेऽनवस्था, तद्भयाच्चाभिमुखीकार— गर्भनियोगोऽङ्गीकर्तव्यः, स च व्रजेत्यादावपि तुल्य एवेत्यलमतिप्रसङ्गेन। यदि चामन्चितस्य तिङन्तेनैकवाक्‍यता न स्यात्, 'आमन्त्रितं पूर्वमविद्यमानवद्' इति ( ८.१.७२) सूत्रकारो न ब्रूयात्। तत्रेदमविद्यमानवत्त्वे प्रयोजनम् निघातादयो मा भूवन्निति; निघातादयश्‍चासमान— वाक्‍यत्वादेव न भविष्यन्ति, किमविद्यमानवद्भावेन।

न चैतद् वार्त्तिककारो मन्यते। सोऽपि ह्यविद्यमानवद्भावस्य प्रयोजनानि पठति अविद्यमानवत्त्वे प्रयोजनमामन्त्रितयुष्मदस्मदादेशतिङ्‍‌निघाता इति। भवतु नाम सामानाधिकरण्येन वैयधिकरण्येन वा यथाकथंचिदाश्रीयमाणानामाख्यातानामाख्यातं प्रति विशेषणत्वमुपलक्षणत्वं हेतुमत्त्वमवधिभावो वा, समुच्‍चयोऽप्येवमेवोपपद्यताम्; साध्यसाधनभावस्तु नोपपद्यते, विरुद्धरूपयोरर्थयोरेकरूपेण शब्देनाभिधानात्। यथाऽयं दण्डो हरानेन फलानीत्ययं दण्ड इत्यनेन रूपेण दण्डशब्दो दण्डार्थमन्तर्भूतास्ति— क्रियामुपादातुमीष्टे। अनेनेत्ययं च शब्दः करणरूपेणेव वस्तुसामान्यमभिदधत् प्रत्यक्षेणोपादत्ते, न रूपान्तरेण, प्रकरणात्तु दण्डे प्रतिपत्तिः। तथेहापि पचति धावतीत्यादिराख्यातसाध्यभूतां क्रियामभिधत्ते, तामेव च सिद्धां साधनत्वमापन्नामनेनैव रूपेण वक्ष्यतीत्यसम्भवः।

नासम्भवः, साध्यत्वेनैव साधनत्वात्।

Showing 431 to 440 of 689 verses