संबोधनपदं यच्च तत्क्रियाया विशेषकम्।
व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ ८१ ॥
ननु च संबोधनपदस्य तिङ्न्तेनैकवाक्यता युज्यते, संबोधनं ह्याक्षिप्तक्रियापदं वर्तते। देवदत्त अभिमुखो भवेत्याभिमुख्ये हि युज्यते। तत्र देवदत्तेत्येतावत्यर्थस्य परिसमाप्तत्वात् संबोधनपदमेकं वाक्यम्, सोऽभिमुखीभूतः क्रियान्तरे नियुज्यते; व्रजेति तदाख्यातमेव द्वितीयम्; 'देवदत्त! व्रजानि' इत्यत्र तु क्रियान्तरनियोगोऽपि नास्तीति भिन्नवाक्यत्वमेव। तन्न, वाक्यलक्षणायोगात्। एवं ह्याहुः—
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्।
कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते ॥ ८२ ॥
एवं च ब्रुवतो यथोक्तलक्षणपदसमूहो वाक्यमित्यभिप्रायः, न च देवदत्तेति पदसमूहः; अथाभिमुखो भवेत्याक्षेपादस्य समूहभावः; तथापि साकाङ्क्षत्वादवाक्यत्वम्। न ह्यभिमुखीभावमात्रमेव कश्चिद् विधत्ते। किं तर्ह्यभिमुखीभावं विधाय क्रियान्तरे नियुङ्क्ते। अपि चाभिमुखो भवेत्यध्याह्रियमाणयापि क्रियया संबन्धं मन्यसे व्रजेत्युपात्तयापि न मन्यस इत्यहो माध्यस्थ्यम्। किंचाभिमुखो भवेत्ययमपि नियोगः, तत्रानभिमुखस्य नियोक्तुमशक्यत्वात्। अभिमुखीकरणाय क्रियान्तराध्याहारेऽनवस्था, तद्भयाच्चाभिमुखीकार— गर्भनियोगोऽङ्गीकर्तव्यः, स च व्रजेत्यादावपि तुल्य एवेत्यलमतिप्रसङ्गेन। यदि चामन्चितस्य तिङन्तेनैकवाक्यता न स्यात्, 'आमन्त्रितं पूर्वमविद्यमानवद्' इति ( ८.१.७२) सूत्रकारो न ब्रूयात्। तत्रेदमविद्यमानवत्त्वे प्रयोजनम् निघातादयो मा भूवन्निति; निघातादयश्चासमान— वाक्यत्वादेव न भविष्यन्ति, किमविद्यमानवद्भावेन।
न चैतद् वार्त्तिककारो मन्यते। सोऽपि ह्यविद्यमानवद्भावस्य प्रयोजनानि पठति अविद्यमानवत्त्वे प्रयोजनमामन्त्रितयुष्मदस्मदादेशतिङ्निघाता इति। भवतु नाम सामानाधिकरण्येन वैयधिकरण्येन वा यथाकथंचिदाश्रीयमाणानामाख्यातानामाख्यातं प्रति विशेषणत्वमुपलक्षणत्वं हेतुमत्त्वमवधिभावो वा, समुच्चयोऽप्येवमेवोपपद्यताम्; साध्यसाधनभावस्तु नोपपद्यते, विरुद्धरूपयोरर्थयोरेकरूपेण शब्देनाभिधानात्। यथाऽयं दण्डो हरानेन फलानीत्ययं दण्ड इत्यनेन रूपेण दण्डशब्दो दण्डार्थमन्तर्भूतास्ति— क्रियामुपादातुमीष्टे। अनेनेत्ययं च शब्दः करणरूपेणेव वस्तुसामान्यमभिदधत् प्रत्यक्षेणोपादत्ते, न रूपान्तरेण, प्रकरणात्तु दण्डे प्रतिपत्तिः। तथेहापि पचति धावतीत्यादिराख्यातसाध्यभूतां क्रियामभिधत्ते, तामेव च सिद्धां साधनत्वमापन्नामनेनैव रूपेण वक्ष्यतीत्यसम्भवः।
नासम्भवः, साध्यत्वेनैव साधनत्वात्।