भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 756 verses
कर्मकर्तृप्रयोजको यथा— आरोहयति हस्तितं हस्तिपकः, आरोहयते हस्तिनं हस्तिपकः, आरोहयते हस्ती, निषादयति क्रमेलकमौष्ट्रिकः, श्रपयति यवागूं यज्ञदत्तः, साधयति ओदनं सूपकार इति। कथं पुनः श्रायति—सियति—कर्त्रोर्यवाग्वोदनयोः कर्मकर्तृत्वं घटते?

श्रातिसिध्यती अकर्मकौ कर्मकर्तृविषयस्य पचेरर्थे वर्तेते। एतौ पुनः प्राकृतं पच्यर्थमाहतुरिति।

हेतुप्रयोजको यथा—अवीवदत् प्रवीणो वीणां परिवादकेन, अपीपठत् कठो माणवकं माठरेण, अजिघ्रपत् प्रियः कुसुमं कान्तया, अदूदुहद् गां वल्लवो गोपालकेन। कथं पुनः दुहिकर्तुः कर्तृप्रयोजकस्य हेतुत्वम्?

दुहेरन्तर्भूतणिजर्थत्वात्। वक्ष्यति हि—

अन्तर्भूतणिजर्थानां दुहादीनां णिजन्तवत्।

सिद्धं पूर्वेण कर्मत्वम् (णिजन्तं नियमस्तथा)॥ ९१॥

इति (वाप. ३.७.७३)।

अहेतुप्रयोजको यथा— संवर्मयति, अतिहस्तयति, अभिषेणयति, उपश्लोकयति।

हेत्वहेतुप्रयोजको यथा— पुत्र उपाध्यायमध्यापयति, कन्या नदौ न (?) वर्तयति, याज्ययाजकौ याजयति, कन्यावरौ विवाहयति।

(कर्मकर्ता —६) विकर्मकर्ता, प्रयोज्यकर्ता, कर्मप्रयोज्यकर्ता, प्रकृतिकर्ता, विकारकर्ता प्रकृतिविकारकर्ता च। तेषु—

Showing 431 to 440 of 756 verses