भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 841 verses
(३. क्रियाविशेषणम्—६)

प्रकृतिप्रत्ययसमुदायस्य प्रकृत्यर्थभागमुखेन भेदकं क्रियाविशेषणम्; भावोत्पन्ने हि प्रत्यये कदाचित् समुदायः प्रत्ययमुखेन विशेष्यते, कदाचित् प्रकृतिमुखेन। तीव्रः पाकः, तीव्रं पाक इति। तत् षोढा— नामरूपम्, अव्ययरूपं, कृद्रूपं, तद्धितरूपं, समासरूपम्, उपसर्गादिरूपमिति। तेषु—

नामरूपं यथा—

मन्दं मन्दं नुदति पवनश्‍चानुकूलो यथा त्वां वामश्‍चायं नदति मधुरं चातकस्ते सगन्धः।

गर्भाधान—क्षण—परिचयान्नूनमाबद्धमाला— स्सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः॥ ५०॥

(मेघ.९)

अव्ययरूपं यथा—(किराता. ८.२८)

प्रशान्तधर्माभिभवश्शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः।

ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तगोचरोऽनिलः॥ ५१॥

कृद्रूपं यथा—

Showing 431 to 440 of 841 verses