बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः॥ ५५॥
कर्त्रादीनां स्वेभ्यः परं कारकविशेषणम्। तदपि षोढा—
कर्तृविशेषणं कर्मविशेषणं करणविशेषणं संप्रदानविशेषणमपादानविशेषणम— धिकरणविशेषणमिति। तेषु —
कर्तृविशेषणं यथा—(कुसं. ७.११)
सा मङ्गलस्नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रम्।
निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे॥ ५६॥
कर्मविशेषणं यथा—(कुसं. ३.५३)
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ ५७॥