सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे।
निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य॥ ६१॥
स षोढा— लिडनुप्रयोगार्थः, लोडनुप्रयोगार्थः, कृदनुप्रयोगार्थः, यथावि— ध्यनुप्रयोगार्थः, तद्धितानुप्रयोगार्थः, द्विर्वचनानुप्रयोगार्थ इति।
लिडनुप्रयोगार्थो यथा—(माघ. ३.२८)
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत् सदृशं गरिम्णः॥ ६२॥
लोडनुप्रयोगार्थो यथा—(माघ. १.५१)
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः।