द्विर्वचनानुप्रयोगार्थो यथा—
वदत वदत सत्यं रूपमीदृक् कदाचिद् यदि पुनरबलाया दृष्टपूर्वं मुखादि।
जगति जितसमस्तारातिवर्गे(र्गैर्भ्रमद्भिर्बत कि-)मिव न दृष्टं मत्प्रसादाद् भवद्भिः॥
चादिनिपातद्योत्यः समुच्चयादिः पदार्थधर्मः परिशेषः।
सोऽनन्तप्रकारोऽपि षड्विध इहोदाह्रियते — समुच्चयः, विकल्पः, उपमा, नियोगः, विनिग्रहः, प्रतिषेधः। तेषु—
समुच्चयो यथा—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितस्समाललम्बे वृषराजकेतनः॥ ६८॥