विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यत वपुः॥ ६९॥
हस्तेन हस्तं परिगृह्य वध्वास्स राजसूनुस्सुतरां बभासे।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन॥ ७०॥
रूपं तदोजस्वि तदुन्नतत्वं तदेव नैसर्गिकमस्य तेजः।
न कारणात् स्वाद् विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्॥ ७१॥
त्वमहनीह निबर्हय मानिनीः विरहिणः कु (त—उत्सविनी धृ—) तिः।