अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः॥ ७५॥
प्रतीयमानोऽपि द्विधा, विभक्तितो निपाताच्च।
तयोराद्यो यथा—(रघु. १४.२४)
स पौरकार्याणि विचिन्त्य काले रेमे विदेहाधिपतेर्दुहित्रा।
उपस्थितं चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या॥ ७६॥
द्वितीयो यथा—(कुसं. ७.४३)
तमन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात्।
जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेव वह्निम्॥ ७७॥