भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 541 to 550 of 841 verses
तत् षोढा— क्रियातादर्थ्यं, द्रव्यतादर्थ्यं, क्रियाद्रव्यतादर्थ्यं, द्रव्यक्रियातादर्थ्यं, प्रकृतिविकारतादर्थ्यं, क्रियाकारकतादर्थ्यमिति। तत्र—

क्रियातादर्थ्यं यथा—(कुसं. ५.१३)

पुनर्ग्रहीतुं नियमस्थया तया द्वयीषु निक्षेप इवार्पितं द्वयम्।

लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥ ८०॥

द्रव्यतादर्थ्यं यथा—(कुसं. १.२३)

प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि।

शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥ ८१॥

क्रियाद्रव्यतादर्थ्यं यथा—(रघु. ६.४४)

तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव।

शरत्प्रमृष्टाम्बुधरोपरोधश्शशीव पर्याप्‍तकलो नलिन्याः॥ ८२॥

Showing 541 to 550 of 841 verses