व्यवधीयमानोऽपि द्विधा वीप्सया भागेन च। सहकृता एव हि क्रिया गुणद्रव्यैः प्रयोक्त्रा युगपद्व्याप्तुमिष्यन्ते, सहकृता एव च विभज्यन्ते। अर्थशब्दस्तु निवृत्तिवचनोऽपि विद्यते, यथा मशकार्थो धूम इति। तत्र—
सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम्।
प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती॥ ७८॥
अलङ्कृताप्यन्वयरूपभूषणैर्न शोभते मां प्रति तावदङ्गना।
बिभर्ति यावत् प्रमदासमागमे न शूरभार्यादृतगर्वितं शिरः॥ ७९॥
कार्यस्य कार्यिणो वा कारणं प्रति प्रयोजकत्वं तादर्थ्यम्।