अस्मिन् पक्षे गवादीनां व्यक्तमेव प्रयोज्यत्वात् प्राक्सूत्रेणैव प्रधानकर्मत्वम्। तथा च गां दोग्धि पय इत्यत्र गां पयः क्षारयतीत्यर्थः। यतो दुहिः प्रपूरणार्थः, पूरणमाप्यायनं, प्रपूरणं तु विरेचनं, प्रेरणप्रस्थानादाविवार्थवैपरीत्याधानात्। यस्तु णिजन्तादीनामपि 'गतिबुद्धि'(१.४.५२) इत्यादिना कर्मसंज्ञारम्भः, स पाचयति देवदत्तेनेत्यादौ प्रयोज्यस्य कर्तुः कर्मसंज्ञा निर्वर्तयन्नियमार्थो भविष्यतीति विभक्तं कर्म॥
करणमुच्यते; तत्र क्रियां प्रत्युपात्तव्यापारेषु कर्मादिषु यद्व्यापारानन्तरं क्रियासिद्धिविवक्षा तत्कारकं साधकतमं करणमिति। यदाह—
क्रियायाः परिनिष्पत्तिः यद्व्यापारादनन्तरम्।
यदा विवक्ष्यते तस्य करणत्वं तदा स्मृतम्॥ १०६॥
तदपि त्रेधा बाह्यमाभ्यन्तरं बाह्याभ्यन्तरं च। तेषु—
बाह्यं कर्तृरूपं, कर्त्राश्रितं, कर्मरूपं, कर्माश्रितं, क्रियाश्रितमनाश्रितं चेति। तत्र— कर्तृरूपं यथा— एधैः पचति, सेनया जयति, अश्वेन गच्छति, नावा तरति।