अस्यार्थः दुह्यादीनां य उपयोगः प्रपूरणादिस्तस्य यन्निमित्तं पयःप्रभृति, यच्च ब्रुविशास्योः क्रिया(क्रियया) धर्मादिकं(क)समवायेन संबध्यते तदपादानादिसंज्ञानामविधाने द्वितीया— वाच्यमप्रधानकर्माकथितम् उच्यते। जिप्रभृतीनां चाप्रधानकर्मणस्तत्रैवोपसंख्यानमिति।
१. तस्माच्छुद्ध = य(त)स्माच्छब्दस्य शुद्ध राघवः
अन्ये तूपयुज्यत इत्युपयोगः पयःप्रभृति, तस्य यन्निमित्तं गवादि। ब्रुविशासिगुणेन च प्रधानेन धर्मादिकर्मणा माणवकादि यत् संबध्यते तदकथितमित्याचक्षते। तत्पक्षे लादिवाच्यानां गवादीनां प्राधान्यं (न) व्याहन्येत, अकथितसंज्ञा च नार्था स्यात्। लादयश्च तेषामपि मते प्रधानकर्मण्येव, यथा अजा नीयते ग्राममिति। यथोक्तम्—
प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ १०४॥
तन्मिथो विरुद्धार्थत्वादेषामेवाविमृश्यवादितामापादयति। कथं समान एव योगक्षेमे गवादीनामप्राधान्यम्, अजादीनां च प्राधान्यम्, कथं वा प्रधानं गवादि लादिभिरजादिवदेवाभिधीयते? किं च—
अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत्।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्तथा॥ १०५॥