भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 511 to 520 of 756 verses
अथ अकथितम्, तद्यथा— गां दोग्धि पयः, पौरवं गां याचते, व्रजं गामवरुणद्धि, माणवकं पन्थानं पृच्छति, पौरवं गां भिक्षते, वृक्षमपचिनुते फलानि, माणवकं धर्मं ब्रूते, माणवकं धर्ममनुशास्ति, शतानीकं शतं जयति, गर्गाञ्छतं दण्डयति, उपसरमश्वं मुष्णाति, अम्बुनिधिममृतं मन्थाति, शाखां ग्रामं कर्षति, अजां ग्रामं नयति, एधान् ग्रामं हरति, भारं ग्रामं वहति, एवं नगरं हरति भारम्, समाहर्तारमयुतं गृह्‍णाति, काशान् कटं करोति।

किं पुनरिहाकथितम्?

पयःप्रभृति।

केनाकथितम्?

लकृत्यक्तखलर्थादिभिरिति। न हि पयःप्रभृतयो लादिभिः कथ्यन्ते, अपि तु गवादयः; यथा दुह्यते गौः पयः, दोग्धव्या गौः पयः, सुदुहा गौः पय इति। यत्तु तैराख्यायते तदीप्सिततमं प्रधानकर्म, प्रागेव क्रियासंबन्धात्। तदुक्तम्—

तस्माच्छुद्धस्य दुहेर्भवति गवा पूर्वमेव संबन्धः।

गोर्दुहिना पयसस्तु प्राक् तस्माल्लादयस्तस्मिन्॥ १०२॥१

एवं ग्रामा दिष्वपि आनयनादिभ्यः प्रागेव नयत्यादिसबंन्धात् लादिभिरभिधाने तद्धितोत्पत्तिरवगन्तव्या। तच्चाख्यानतः कथितमुच्यते, तद्‍िवपरीतं त्वकथितमिति॥ 'दुहियाचिरुधिप्रच्छिभिक्षिचियाम्' (मभा. १.४.५१) इत्यादि,

जिदण्डिमुषिमन्थानां गत्यर्थानामकीर्तिते।

नीहृञ्वहिग्रहादीनामुपसंख्यानमिष्यते॥ १०३॥

Showing 511 to 520 of 756 verses