इति निवेशयति स्म कलापिनामनुगिरं नु गिरं जलदागमः॥ ७२॥
निषेधो यथा—(किराता. ९.२५)
न प्रसादमुचितं गमिता द्यौः नोद्धृतं तिमिरमद्रिवनेभ्यः।
दिङ्मुखेषु न च धाम विकीर्णं भूषिता च रजनी हिमभासा॥ ७३॥
यद्युत्पत्तौ सहकारिलाभः तदा सहार्थस्त्रिधा अभिधीयमानः, प्रतीयमानः, व्यवधीयमानश्च। तेषु—
अभिधीयमानो द्विधा, सहेन पर्यायेण च।
तयोराद्यो यथा—(रघु. ६.३५)
अनेन यूना सह पार्थिवेन रम्भोरु! कच्चिन्मनसो रुचिस्ते।
शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु॥ ७४॥