भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 511 to 520 of 595 verses
यशोऽनुरागयोर्वर्णप्रक्लृप्‍तिरवगम्यते॥ ९३॥

वधूशब्देन तु दिशां नायिकात्वं प्रतीयते।

न च सम्बन्धगन्धोऽपि वास्तवस्तेषु विद्यते॥ ९४॥

तदुपज्ञं चैष लौकिकः प्रवादः—

अतहट्ठिए वि तह तह संठिए व्व हिअअम्मि जा णिवेसेइ।

अत्थविसेसे सा जअइ विअडकइगोअरा वाणी॥ ९५॥

(अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति।

अर्थविशेषान् सा जयति विकटकविगोचरा वाणी॥)

भवतु नाम शब्दस्य वाचकत्वपक्षे विवक्षानुप्रवेशादर्थातथात्वेऽपि तथा प्रत्यायकत्वम्। विशेषणपक्षे तु कथमिवैतदुपपद्यते? विशेषणेन हि प्रधानानुयायिनां भवितव्यम्, प्रधानेन त्वविचलितस्वार्थेन।

नैवं, विशेषणमपि शब्दानुरञ्जकत्वेनार्थमध्यासीनः कुतश्‍चिदुपाधेरन्यथाव— भासमानः स्वाश्रयमप्यन्यथावभासयति। तद्यथा—

Showing 511 to 520 of 595 verses