भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 521 to 530 of 595 verses
मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।

बाहू प्रलम्बावङ्गेषु चरणौ मृदु॥ ९६॥

इति।

अत्र स्तनादयो जातिशब्दाः सव्यत्वदक्षिणत्वजातिद्वयैकार्थसमवायो— पाधेरेकत्वयोगिनोऽपि द्वित्वेनावभासमानाः स्वाश्रयानपि तथैवावभासयन्ति। एतेन व्यक्तौ पदार्थे बहूनामपि द्वित्वावभासो व्याख्यातः। तद्यथा—

दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन।

प्रकाशकार्कश्‍यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्॥ ९७॥

(माघ.३.१४)

अत्र विशिष्टनखक्षतभूषादिविशेषोपादानात् सुव्यक्तैव स्तनशब्दस्य व्यक्‍त्यर्थतेति। एवं कदा पूर्वाः फल्गुन्य इति चन्द्रमसा सह योगे बहुत्वविवक्षायां द्वयोरपि बहुत्वेनावभासः, कदा तिष्यपुनर्वस् इति तारकानपेक्षनक्षत्रद्वितवविवक्षायां बहूनामपि द्वित्वेनावभासो भवति।

अथ यथा चन्द्रयोगस्याविवक्षायां तारकागतद्वित्वसङ्खया पूर्वे फल्गुन्याविति भवति, एवं चन्द्रमसा सह योगस्य तारकासङ्‍ख्याश्‍च विवक्षितत्वे भवितव्यं तिष्यपुनर्वसव इति; प्रयोगे तु न भवितव्यम्; न हि लोके तादृशी विवक्षा विद्यते; विवक्षा च कुलवधूरिव न लोकमर्यादामतिक्रामति। तद्यथा— (रघु. ३.१६)

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम्।

Showing 521 to 530 of 595 verses