यथास्मै रोचते विश्वं तथेदं परिवर्तते॥ १२७॥
ठिअमट्ठिअं व दीसइ अठिअं पि जहठ्ठिअं/परिठ्ठिअं व पडिहाइ।
जहसंठिअं च दीसइ सुकईण इमाओ पयईओ॥ १२८॥
(स्थितमस्थितमिव दृश्यते अस्थितमपि यथास्थितमिव/परिष्ठितमिव प्रतिभाति।
यथासंस्थितमिव दृश्यते सुकवीनामिमाः पदव्यः/प्रकृतयः॥)
क्वचित् स्वल्पेऽप्यर्थे प्रचुरवचनैरेव रचना क्वचिद् वस्तु स्फारं कतिपयपदैरर्पितरसम्।
यथावाच्यं शब्दाः क्वचिदपि तुलायामिव धृता— स्त्रिभिः कल्पैरेवं कविवृषभसन्दर्भनियमः॥ १२९॥
विविक्षा लोकव्यवहारे काव्यव्यवहारे च सुमतिभिरुन्नीयमाना त्रिधा विख्यायते काक्वादिव्यङ्ग्या, प्रकरणादिव्यङ्ग्या, अभिनयादिव्यङ्ग्या च। तत्र—