यदि मे वल्लभा दूती तदाहमपि वल्लभा।
यदि तस्याः प्रिया वाचस्तन्ममापि प्रियप्रियाः॥ १३१॥
इयमेव निर्देष्टुर्विधिरूपा।
गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु।
वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः॥ १३२॥
वितर्कगर्भा यथा—(विक्रमो. ४.१)
नवजलधरः सन्नद्धोऽयं न दुष्टनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम्।