क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतकौरवा— नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव॥ १३५॥
अभ्यनुज्ञोपहासकाकुर्यथा— (वेसं. १.१४)
मथ्नामि कौरवशतं समरे न कोपाद् ?
दुश्शासनस्य रुधिरं न पिबाम्युरस्तः?
सञ्चुर्णयामि गदया न सुयोधनोरू?
सन्धिं करोतु भवतां नृपतिः पणेन॥ १३६॥
विषान्ना(अमर्षा?)द्याक्षेपकाकुर्यथा— (वेसं १. ७)
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥ १३७॥
एवमन्या अपि— (रुद्रट. २.१७)