अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया मम नोर्वशी॥ १३३॥
इयमेवोपदेष्टुर्निर्णयरूपा।
एवमन्या अपि—(विक्रमो. ४. २७)
सर्वक्षतिभृतां नाथ दृष्टां सर्वाङ्गसुन्दरी।
रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया॥ १३४॥
ता इमास्तिस्त्रोऽपि नियतप्रतिबन्धाः।
(२) अनियतप्रतिबन्धाः पुनरनन्ताः। तासु —
अभ्युपगमानुनयकाकुर्यथा— (वेसं. १.११)
युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।