भेदानाकाङ्क्षतस्तस्य या परिप्लवमानता।
अवच्छिनत्ति सम्बन्धस्तां विशेषे निवेशयन्॥ ९९॥
अत एव च नानेकवाक्यार्थप्रतीतिः। सर्वेषां कारकाणां कर्मादिभावेन व्यवस्थितानामेव क्रियासम्बन्धात्। न च प्रथमश्रुतादप्यर्थप्रतीतिः, विद्यमानस्याप्यन्वयस्य सम्बन्धग्रहणमन्तरेणानुपलब्धेः। न चैकपदोच्चारणकाले सकलवाक्यार्थप्रतीतिः, तदानीं विशेषसमर्पकपदप्रयोगायोगात्।
यद्येवं सामान्येनान्विताभिधानमेवास्तु, किं विशेषेणाभिहितान्वयेन। वृद्धव्यवहारप्रसिद्धसम्बन्धो हि शब्दोऽर्थस्य वाचकः। अन्वयव्यतिरेकाभ्यां च सम्बन्धावधारणम्। न च विशेषान्वयविषयौ तौ सम्भवतः। क्रियापदं हि कारक— सामान्याऽव्यभिचारिण्या क्रियया सहान्वयव्यतिरेकौ भजते, विशेषान्वये विशेषान्तरव्यभिचारात्। एवं कारकपदमपि।
तन्न; विशेषान्वयेऽपि आकाङ्क्षासन्निधियोग्यत्वोपाधिवशेन सम्बन्धग्रहणं सुकरमिति तदभिधायितैव युक्ता पदानाम्। यदि चासौ नेष्यते तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, वाक्यार्थस्य विशेषान्वयरूपत्वात्।
ननु च सामान्यान्वयोऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्यैव प्रत्येतुमशक्यत्वात्।
नैवम्। यथा जातिर्व्यक्तिमाक्षिपन्त्यपि न प्रतिनियतं विशेषमाक्षिपति, तथात्रापि नियताविशेषाभावान्नियतविशेषात्मकवाक्यार्थप्रतीतिरुपपन्ना।
ननु विशेषमात्राक्षेपेऽपि य आकाङ्क्षितः सन्निहितो योग्यश्च विशेषः पदान्तरेण समर्प्यते स एव गृह्यते, तदतिक्रमे प्रमाणाभावात् (इति),