यत्त्वधिगतविषयत्वं दूषणमुक्तं तदिष्यत एव। अत एव न पदं पदार्थे प्रमाणम्, अधिगतविषयत्वात्, अनधिगतार्थगन्तृ हि प्रमाणं भवति। न च पदस्य स्वार्थे स्मारकत्वमेव। यदाह—
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥ ९७॥
न तु स्मारकमेव भवति। तस्मात् पदानामभिहितान्वय एव न्याय्य इति।
उभयवादिनस्त्वेवमामनन्ति, सामान्यतोऽन्विताभिधानं विशेषतोऽभिहितान्वय इति। गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते। तदेतत् सामान्येनान्विताभिधानम्। शुक्लादिगुणविशेषस्तु पदान्तरादवगम्यते। सोऽयं विशेषेणाभिहितान्वय इति।
अपि च क्रियाकारकसंसर्गरूपो वाक्यार्थः, क्रियासम्बन्धमन्तरेण कारकत्वानुपपत्तेः। विशेषेषु चानन्त्यव्यभिचारादिदोषात् क्रियासामान्यान्वित एव कारके कारकपदानां सम्बन्धग्रहणं, संबन्धानुसारेण चाभिधानात् सामान्येऽन्विताभिधानमेव घटते। व्यवहारकाले च क्रियाविशेषान्वितानामेव कारकाणामुपलम्भात्। क्रियाणामपि च कारकविशेषान्वितानां प्रतीतेः शब्दव्यापारस्य सामान्यान्वयाभिधानेनैव परिसमाप्तेर्विशेषेष्वभिहितान्वय एव युज्यते। एवं च पदान्तरोच्चारणमपि न व्यर्थं भवति, अपेक्षितक्रियाकारकविशेष— समर्पकत्वेनार्थवत्त्वात्।
यद्यपि चात्र क्रियाकारकमात्रान्वयाभिधाने क्रियाकारकमात्रसम्बन्धित्वं क्रियाकारकसामान्याभिप्रायम्, तथाऽपि स्वार्थमात्रोपादायिनः सर्वभेदान् प्रति योग्यता; तदेवा—(तद्भेदा—)नुगुण्यमात्रं सामान्यम्, न हि तथा, अन्यथा सर्वथा वेति सामान्यमवस्थितरूपं किंचिदस्ति, सर्व एते विशेषा एव। तस्यास्तु सामान्यावस्थायां भेदस्य कस्यचिदनिरूपणादत्यागाच्च या सर्वभेदोपग्रहयोग्यतायां परिप्लवमानार्थकल्पना तां सम्बन्धो विषयान्तरादवच्छिद्य विशिष्टे विषये नियमयति। तदुक्तम्—
सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः।
तदर्थान्तरसंसर्गाद् भजते भेदरूपताम्॥ ९८॥