न चैतद् वाच्यम्; अर्थापत्त्यनुमानयोरयं व्यापारः, तद्विषयायाः प्रतीतेरिह विवक्षितत्वात्। यत्र ह्याकाङ्क्षादित्रयोपेताः पदार्था एवान्योन्यमन्वयं गमयन्ति, न तत्रार्थापत्त्यनुमानयोर्व्यापारः। यथा सुरभि चन्दनं, स्वादु सहकारमिति। न चात्र विशिष्टप्रतिपत्तौ प्रत्यक्षमेव व्याप्रियते; चक्षुरादीनां रूपादिनैयत्येन परस्परविषयेणाज्ञातत्वात्। तथा हि न गन्धाद्युपलब्धौ चक्षुः व्याप्रियते, नापि रूपाद्युपलब्धौ घ्राणमिति। अस्ति च सुरभि चन्दनमित्यादौ विशिष्टार्थप्रतिपत्तिः, एवं श्वेतोऽश्वो धावतीत्यत्रापि द्रष्टव्यम्।
यच्चात्रोक्तं 'कस्मिन् प्रमाणेऽस्यान्तर्भाव' इति; तत्र न कस्मिंश्चित् प्रमाणेऽन्तर्भावः, किन्तु प्रमाणफलमेतत्। यदि वा पदार्थ एवात्र प्रमाणम्, तेषां च शब्द एवान्तर्भावान्न सप्तमप्रमाणापत्तिः। पदार्था हि शब्दात् प्रमाणान्तरतो वा प्रतिपन्ना आकाङ्क्षासन्निधियोग्यताभिः क्रियाकारकादिरूपेण चेत् प्रतीयमानाः संसर्गबुद्धिं जनयन्ति शाब्दमेवैतद् भवति।
यत् पुनराकाङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्तीत्युपन्यस्य दूषितं, तत्र न वयमेवं ब्रूमः 'पदार्था एव वाक्यार्थीभवन्ति'।
यच्च प्रत्ययदृष्टान्तेन द्वितीयपदस्यान्विताभिधायित्वेऽर्धवैशसमुक्तं, तदपि नास्ति; प्रकृतिप्रत्यययोरपि पदवदेवान्वयव्यतिरेकावधारितव्यतिरिक्तशक्तिकयोर— भिहितान्वयस्यैवोपपत्तेः।
पाकं हि पचिरेवाह कर्तारं प्रत्ययोऽप्यकः।
पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित्॥ ९४॥
प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति च।