अनाक्षिप्तोऽरुणादिर्यः सन्निधानेन गम्यते।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः॥ १०७॥
एतेन लिङ्गाद्यनुपात्तयापि श्रुत्या लिङ्गादिबाधो व्याख्यातः।
यथाश्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ १०८॥
अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ १०९॥