अरिमेदः पलाशश्च बाहुः कल्पद्रुमश्च ते।
बालेवोद्यानमालेयं सालकाननशोभिनी॥ १४३॥
भाषाश्लेषो यथा—(रुद्रटा. ४.१५)
धीरागच्छदुमे हतमुदुद्धरवारिसदस्सु।
अभ्रमदप्प्रसराभरणुरविकिरणा तेजस्सु॥ १४४॥
भिन्नार्थेकरूपा च वर्णसङ्घातावृर्त्तिर्यमकम्। तत् षोढा—
स्थानयमकम्, अस्थानयमकं, व्यपेतम्, अव्यपेतं, समुद्रकः, पादयमकमिति। तत्र पादानामादिमध्यान्ताः स्थानम्। तेषु —
शब्दसङ्घातावृत्ति स्थानयमकं, यथा—(काव्याद. ३.३४)
सालं सालम्बकलिकासालंसालं न वीक्षितुम्।