समुद्रको यथा—(पृ॰द्र. ३६२)
कान्तारतरुतलासितमृगयुवरचितान्तरा हरति वनान्ता॥ १४९॥
कमलमलिरमुञ्चदुत्पलकलिकातरलोलमुत्पलाशकान्ते।
कान्ते स्म चक्षुरलिकुलकलिकातरलोलमुत्पलशकान्ते॥ १५०॥
वर्णानामनतिदूरान्तरमावृत्तिरनुप्रासः। स षोढा— वर्णानुप्रासः, स्थानानुप्रासः, पदानुप्रासः, नामानुप्रासः, पादानुप्रासः, व्यवहितानुप्रास इति। तत्र—
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १५१॥