रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम्।
तावेव यदि न स्यातां तपसा किं प्रयोजनम्॥ १५५॥
प्रकाशो यशसा देवः प्रकाशो महसा रविः।
दुस्सहो द्विषतां स्वामी दुस्सहस्तमसां स च॥ १५६॥
चतुर्विंशतिरित्युक्ताः शब्दालङ्कारजातयः।
जात्यादिभेदतः पद्ये गद्येऽप्यासामयं क्रमः॥ १५७॥
इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा।
वाचामेव प्रसादेन लोकयात्रा प्रवर्तते॥ १५८॥