वासावस्थितताम्रचूडवयसामायामिभिः कूजितै— र्दूरादप्यनुमीयमानवसतिर्ग्रामोऽयमग्रेवणम् ।
यत्रादीप्तकुकूलकूटविसरद्धूम्याघनं घूर्णते सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः॥ १२३॥
अत्र ताम्रचूडवयसां कूजितैरित्यनुमानं, यत्र तमो घूर्णत इति ज्ञापकहेतुः, आदीप्तकुकूलकूटविसरद्धूम्याघनमिति सन्ध्यान्तोल्लसदच्छभल्लपटलच्छाया— जटालमिति च कारकहेतुः, जायमानपदार्थस्वरूपाभिधानं जातिरित्यर्थालङ्कारा— श्चत्वारो मिथः सङ्कीर्यन्ते।
ण हु णवरं दीवसिहासारिच्छं चंपएहिं पडिवण्णं।
कज्जलकज्जं पि कअं उअरि भमंतेहिं भमरेहिं॥ १२४॥
(न खलु केवलं दीपशिखासादृश्यं चम्पकैः प्रतिपन्नम्।
कज्जलकार्यमपि कृतमुपरि भ्रमद्भिर्भ्रमरैः॥)