खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम्।
गन्धं मुञ्चति सिक्तलाजसुरभिं वर्षेण दग्धा स्थली दुर्लक्षोऽपि विभाव्यते कमलिनीहासेन भासां पतिः॥ १२७॥
अत्र जातिरनुमानं कारकज्ञापकहेतू चेत्यर्थालङ्काराः, रूपकमुपमा हेतूपमोत्प्रेक्षोपमेति च उभयालङ्कारा मिथः सङ्कीर्यन्ते।
भवतु नाम गुणानां रसानामलङ्काराणां च सङ्करः; गुणरससङ्करस्तु कथंकारमुपपन्नो भवति? यतो दोषदानमिव गुणोपादानमपि नियमनिर्वर्त्यम्, अलङ्कारयोग इव रसावियोगोऽप्यवश्यविधेयः।
कदाचिदलङ्कारयोगोऽपि त्यज्यते, न तु रसावियोगो गुणयोगश्च। व्यभिचरित— सम्बन्धा एव च पदार्थाः पदार्थान्तरैस्तिलतण्डुलक्षीरनीरादिवत् संसृज्यमानाः सङ्कर— बुद्धिमुत्पादयन्तो दृश्यन्ते, नावयवावयविवज्जातिव्यक्तिवच्चाव्यभिचरितसम्बन्धा इति।
अत्रापि ब्रूमः — यत्र चित्रवर्णवन्नरसिंहवत् पांसूदकवच्च अवयवावयविन्यायेन जातिव्यक्तिन्यायेन चापृथक्प्रयत्ननिर्वर्त्यानां गुणरसानां वाक्ये सन्निवेशः, तत्रं सङ्करव्यवहारो न प्रवर्तते। तद्यथा— (काव्याद. १.५१)
मधुरं रसवद् वाचि वस्तुन्यपि रसस्थितिः।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः॥ १२८॥
कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चतु।