चाणक्येन तन्मुद्रालाञ्छितलेखालङ्कारादिदर्शनेन राक्षसात् मलयकेतुर्भेदितः।
४२.(४.३) दण्डो यथा तत्रैव राक्षससङ्ग्रहार्थं वधबन्धादिकं तन्मित्रे श्रेष्ठिनि चन्दनदासे प्रयुक्तम्।
४३.(४.४) प्रदानं यथा मृच्छकट्याम्—
शकारो गणिकां व्यापादयितुं विटाय दानमुपन्यस्तवान्। (शकारः) भाव !
जदिच्छसे लंबदसाकलापं पावाइअं सुत्तसतेन जुत्तं।
मंसं च खादुं तह तुट्ठि काहिं चुहू चुहू चुक्कु चुहू चुहूत्ति॥ १३३॥
{यदीच्छसि लम्बदशाकलापं प्रावारकं सूत्रशतेन युक्तम्।
मांसं च खादितुं तथा तुष्टिं कर्तुं (चुहू चुहू चुक्कु चुहू चुहू)इति॥}
शकारः— मम पिअं कहेहि। (मम प्रियं कुरु।)