विटः— बाढं करोमि, वर्जयित्वा त्वकार्यम्।
शकारः— अकज्जस्स गंधो वि ण त्थि। (अकार्यस्य गन्धोऽपि नास्ति।)
शकारः— मालेहि वसंतशेणिअं ति। (मारय वसन्तसेनाम् इति।) तथा मम स्वामिनानेनार्येण (अनार्येण) वसन्तसेना व्यापादिता; न चारुदत्तेन इति ब्रुवते स चेटाय कटकं प्रयच्छन्नाह च—पुतक (एदं गेह्िणअ अण्ण) धा भण। (पुत्रक ! एतद् गृहीत्वाऽन्यथा भण।)॥ १३४॥
४४.(४.५) वधो यथा— रामायणीयेषु नाटकेषु ताटकाविराधवालिजटायुःप्रभृतीनां, भारतीयेषु बकहिडिम्बकीचकाभिमन्युप्रभृतीनामिति।
४५.(४.६) प्रत्युत्पन्नमतित्वं यथा तापसवत्सराजे वसन्तकेन राजा भौतिकनैष्ठिक— वृत्तयोर्विशेषं पृष्टः कथयित्वाऽऽह — किं च भवान् नैष्ठिकं प्रपन्नः?
विदूषकः — भो णाहं भोदिअं जाणामि। ण हि (ण)ट्ठिअं। जदा तुमं एद व्व पदं परिच्चअसि तदा x x x x जा एसा दासीए लिभा अस्स थविअ x x x x एदाविअ अख x x x x विमेधा दोणेद्दरदि। एदं परिव्याअअभंडिअं सदसक्कारं णइअ ता अज्जेव देवीए वासवदत्ताए सहत्थोवणीदमोदए अण्हंतो पढमकालादो वि अव्भुअं विलसिस्सं। (भो नाहं भौतिकं जानामि, न हि नैष्ठिकम्। यदा त्वम् एतदेव पदं परित्यजसि तदा x x x x या एषा दास्याः x x x x तरति। एवं परिव्राजकभण्डिलं शतसत्कारं नीत्वा तद् अद्यैव देव्या वासवदत्तया स्वहस्तोपनीतमोदकान्यश्र्नन् प्रथमकालादपि अद्भुतं विलसिष्यामि।)
राजा— ससमभ्रमौत्सुक्यं कथमिव? ततः x x x x
विदूषकः— {प्रकाशितदाहाया वासवदत्ताया रभसात् जीवनोच्छेदं (?) कृत्वा, हस्तमवधूय, आत्मगतम्} किं दाणिं एत्थ करिस्सं? (किमिदानीमत्र करिष्यामि?) (प्रत्युत्पन्नमतित्वात् चिन्तयन् आह) अहवा एव्वं दाव। (अथवा एवं तावत्)। (प्रकाशम्) भो वअस्स ! किं ण सुरमदि भवं जं भणिदं तेण भअवदा सिहादेसेण देवीसरिसाकिदीए कण्णआए पाणिग्गहणं णिच्चतिअ देवीसमागमो दे भविस्सिदि त्ति। (भो वयस्य ! किं न स्मरति भवान्—यद् भणितं तेन भगवता सिद्धादेशेन देवीसदृशाकृत्याः कन्यकायाः पाणिग्रहणं निर्वर्त्य देवीसमागमस्ते भविष्यतीति।)॥ १३५॥
४६.(४.७) गोत्रस्खलितं यथा— विक्रमोर्वश्याम्— अप्सरसा अन्यस्यै कथितम् ऊर्वश्या शक्रसदसि प्रेक्षणीये 'पुरुषोत्तम' इति वक्तव्ये तद्गतमनसा 'पुरूरवाः' इत्यभिहितम् इति प्रवेशके सूचितम्।