भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 611 to 620 of 2002 verses
भ्राताहमित्यसदृशं मम दुष्कृतैस्तै— र्द्वेष्टा भवानिति तदत्र दशाविरुद्धम्।

यद्यद् ब्रवीमि वचनं लघु तत्तु तत्र कामं भवेच्छरणमप्रतिपत्तिरेव॥ १३७॥

तदत्र वैलक्ष्यम् लज्जानिमित्तमेव।

५०. (४.११) माया यथा देवीचन्द्रगुप्‍ते— चन्द्रगुप्‍तस्य कृतकोन्माद इति मानुषी माया। कृत्यारावणादिषु— कनकमृगादिरचनात्मिका त्वमानुषी।

५१. (४.१२) क्रोधो यथा— श्रीविशाखदेवकृते अभिसारिकावञ्चिते वत्संराजः सम्भावितपुत्रवधायै पद्मावत्यै क्रुद्धः, तथा चाभ्यधात्—

प्रदुष्टोग्रग्राहां सरितमवगाढः श्रमवशा— दुपालीनः शाखां फलकुसुमलोभाद् विषतरोः।

फणालीढेनार्थी च्युतपरिचयां क्रौर्यनिरतां विषज्वालागर्भां चिरमुरगकन्यामनुसृतः॥ १३८॥

योऽसौ पुरुषार्थसिद्धिहेतुः क्रोधः स्थायिभावः, सोऽयं न भवतीत्युदाहृतम्। पुरुषार्थसिद्धिहेतुस्तु स्थायिभावः, न सन्ध्यन्तरम्।

५२. (४.१३) ओजो यथा देवीचन्द्रगुप्‍ते विदूषकः शकपतेः शिबिरमभिप्रस्थितं नायकमाह— भो कह दाणिं तुमं सुबहुआणं अमच्चाणं मज्झे संचरिस्ससि? (भोः, कथमिदानीं त्वं सुबहूनाम् अमात्यानां मध्ये एकाकी संचरिष्यसि ?)

नायकः— अलं मूर्खं, सत्त्वमृत्सृज्य सङ्ख्यायां बहुमानो भवतः। पश्‍य—

Showing 611 to 620 of 2002 verses