५४.(४.१५) भ्रान्तिर्यथा रत्नावल्यां— रात्रावुद्यानसङ्केतस्थानस्थितेन राज्ञा नैपथ्यसादृश्यनिमित्तया भ्रान्त्या सागरिकेति तन्नाम्ना वासवदत्ता समाभाषिता, वासवदत्तानाम्ना सागरिका।
५५. (४.१६) हेत्ववधारणं यथा मुद्राराक्षसे नेपथ्ये— वैतालिकाभ्यां देवतारूपकेण प्रवृत्तशरद्उ/?/ण— प्रख्यापकाशीर्वचने पठितेऽनन्तरं श्लोकद्वयं पठितम्—
सत्त्वोत्कर्षस्य धात्रा निधय इव कृताः केऽपि कस्यापि हेतो— र्जेतारः स्वेन धाम्ना मदसलिलमुचां नागयूथेश्वराणाम्।
दंष्ट्राभङ्गं मृगाणामधिपतय इव त्यक्तमानावलेपाः नाज्ञाभङ्गं सहन्ते नृवर! नृपतयस्त्वादृशास्सार्वभौमाः॥ १४१॥
भूषणाद्युपभोगेन प्रभुर्भवति न प्रभुः।
परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते॥ १४२॥
एतदाकर्ण्य चाणक्यश्चन्द्रगुप्तेनादिष्टस्य कौमुदीमहोत्सवस्य स्वयं कृतं प्रतिषेधमनुसन्धाय चन्द्रगुप्तसमुत्तेजनपरमेतदित्यवधारयन् तथा हि स्वगतमाह— प्रथमं तावद् विशिष्टदेवता (स्तुतिरूपेण प्रवृतशरद्उ/?/णप्रख्यापनमाशीर्वचन)म्, अपरं किमित्यवधारयामि ? (विचिन्त्य) आः, भवतु ज्ञातम्। राक्षसस्यायं प्रयोगः। (आकाशे लक्ष्यं वद्ध्वा) राक्षस राक्षस ! दृश्यसे भोः! (दृश्यसे) जागर्ति खलु कौटिल्यः (इति) राक्षसप्रयुक्ते हेतोरवधारणम्॥
५६.(४.१७) दूतो यथा पार्थविजये—भगवान् वासुदेवो दुर्योधनस्य दूतो गतः।
५७.(४.१८) लेखो यथा तापसवत्सराजे— प्रद्योतेन वासवदत्तायाः प्रहिते लेखे, वत्से त्वां स्वजनाशिषामविषयं पत्युः।