भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 631 to 640 of 2002 verses
५४.(४.१५) भ्रान्तिर्यथा रत्‍नावल्यां— रात्रावुद्यानसङ्केतस्थानस्थितेन राज्ञा नैपथ्यसादृश्‍यनिमित्तया भ्रान्त्या सागरिकेति तन्नाम्ना वासवदत्ता समाभाषिता, वासवदत्तानाम्ना सागरिका।

५५. (४.१६) हेत्ववधारणं यथा मुद्राराक्षसे नेपथ्ये— वैतालिकाभ्यां देवतारूपकेण प्रवृत्तशरद्उ/?/ण— प्रख्यापकाशीर्वचने पठितेऽनन्तरं श्‍लोकद्वयं पठितम्—

सत्त्वोत्कर्षस्य धात्रा निधय इव कृताः केऽपि कस्यापि हेतो— र्जेतारः स्वेन धाम्ना मदसलिलमुचां नागयूथेश्वराणाम्।

दंष्ट्राभङ्गं मृगाणामधिपतय इव त्यक्तमानावलेपाः नाज्ञाभङ्गं सहन्ते नृवर! नृपतयस्त्वादृशास्सार्वभौमाः॥ १४१॥

अपि च—

भूषणाद्युपभोगेन प्रभुर्भवति न प्रभुः।

परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते॥ १४२॥

एतदाकर्ण्य चाणक्यश्चन्द्रगुप्‍तेनादिष्टस्य कौमुदीमहोत्सवस्य स्वयं कृतं प्रतिषेधमनुसन्धाय चन्द्रगुप्‍तसमुत्तेजनपरमेतदित्यवधारयन् तथा हि स्वगतमाह— प्रथमं तावद् विशिष्टदेवता (स्तुतिरूपेण प्रवृतशरद्उ/?/णप्रख्यापनमाशीर्वचन)म्, अपरं किमित्यवधारयामि ? (विचिन्त्य) आः, भवतु ज्ञातम्। राक्षसस्यायं प्रयोगः। (आकाशे लक्ष्यं वद्ध्वा) राक्षस राक्षस ! दृश्‍यसे भोः! (दृश्‍यसे) जागर्ति खलु कौटिल्यः (इति) राक्षसप्रयुक्ते हेतोरवधारणम्॥

५६.(४.१७) दूतो यथा पार्थविजये—भगवान् वासुदेवो दुर्योधनस्य दूतो गतः।

५७.(४.१८) लेखो यथा तापसवत्सराजे— प्रद्योतेन वासवदत्तायाः प्रहिते लेखे, वत्से त्वां स्वजनाशिषामविषयं पत्युः।

Showing 631 to 640 of 2002 verses