५८.(४.१९) स्वप्नो यथा स्वप्न वासवदत्ते पद्मावतीमस्वस्थां दृष्ट्वा राजा समुद्रगृहकं गतः। पद्मावतीरहितं च तदवलोक्य तस्या एव शयनीये सुष्वाप। वासवदत्तां च स्वप्नवदस्वप्ने ददर्श। स्वप्नायमानश्च वासवदत्ता— माबभाषे। स्वप्नशब्देन चेह स्वापो वा स्वप्नदर्शनं वा स्वप्नायितं वा विवक्षितम्; सर्वत्रेदमेवोदाहरणम्, सर्वेषां सम्भवात्।
५९.(४.२०) चित्रं यथा रत्नावल्यां चित्रगतां सागरिकां दृष्ट्वा वत्सराजस्य कामः।
६०(४.२१) मदः मानिनो भवस्य (?) चेतिहासेषु दर्शितम्; रावणस्यापि नाटकेषु कविभिर्निबन्धः(द्धः)। यथा कृत्यारावणे विमानस्थो रावणो मदादाह—
भीताः स्थ भोः किममरास्समराभिमान— मुत्सृज्य तिष्ठति रिपौ न हि मेऽस्ति वैरम्।
स्वस्थोऽरुण—व्रज—विकृष्टखलीनपाशः प्रेष्येषु किं दशशिराः प्रहिणोति शस्त्रम्?॥ १४३॥
अथ पाननिमित्तो यथा मालविकाग्निमित्रे। तत्र हि इरावती युक्तमदा (प्रविश्य) चेटी च—
इरावती — हंजे निउणिए, सुणोमि बहुसो मदो किल विसेसमंडणं इत्थिआअणस्स त्ति। अवि सच्चो लोअप्पवादो ? (हञ्जे निपुणिके, श्रृणोमि बहुशः मदः किल विशेषमण्डनं स्त्रीजनस्येति। अपि सत्यो लोकप्रवादः ?)
चेटी— पडमं लोअप्पवादो एव्व, अज्ज उण सच्चो संउत्तो। (प्रथमं लोकप्रवाद एव; अद्य पुनः सत्यः संवृत्तः।)॥ १४४॥
अथ पताकास्थानानि चत्वारि। तत्र च—(नाशा. १९. ३०)