भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 661 to 670 of 2002 verses
(जयतु जयतु कुमारः। कुमार! कुत्राज्जुका ? X X X X अद्य खलु अज्जुका केनापि कारणेन अहं विमनाः कुमारं प्रेक्षे इति भणन्ती राजकुलान्निष्क्रान्ता। इदं च तस्या देव्याः ध्रुवदेव्याः स्वशरीरपरिभुक्तं प्रसाधनकं प्रसादीकृतं गृहीत्वा कुमारस्य समीपेऽज्जुका गता। यावदज्जुकामन्वेषयामि।)

विदूषकः—आ दासीएधीए ! किं तव अहं भंडागारिओ ? गच्छ वेच्छि आ दास्याः पुत्रि! किं तवाहं भाण्डागारिकः? गच्छ इति यवनिकान्तरितः स्त्रीवेषं कृत्वा निष्क्रान्तः ॥ १४७॥

तदेवमन्यथा निर्गमनोपाये चिन्त्यमाने स्त्रीवेषः साधनमुपगतामिति सामान्यलक्षणानुगमात्तद्भेदश्चेटीवचनप्रयुक्तमेकं पताकास्थानकमिति।

६२. (५. २)

वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम्।

पताकास्थानकमिदं द्वितीयं परिकीर्तितम्॥ १४८॥

(नाशा. १९.३१)

यथा रामाभ्युदये— तृतीयेऽङ्के सुग्रीवः संदिशति—

बहुनात्र किमुक्तेन पारेऽपि जलधेः स्थिताम्।

अचिरादेव देवि त्वामार्यः प्रश्वासयिष्यति॥ १४९॥

Showing 661 to 670 of 2002 verses