भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 651 to 660 of 2002 verses
यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते।

आगन्तुकेन भावेन पताकास्थानकं तु तत्॥ १४५॥

तच्चतुर्धा— (नाशा १९.३१)

६१.(५.१)

सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः।

पताकास्थानकमिदं प्रथमं परिकीर्तितम्॥ १४६॥

केवतिना (शकपतिना) परं कृच्छ्रमापतितं रामगुप्‍तस्कन्धावारमनुजिघृक्षु— रुपायान्तरागोचरे प्रतीकारे निशि वेतालसाधनमध्यवस्यति कुमारचन्द्रगुप्‍ते आत्रेयेण विदूषकेणोक्तम्—

विदूषकः— भो ण सक्कं दाणिं भवदा इमाए वेलांमभण्डागारिआणं) सआसादो पदादो पदं वि गंतुं ? (भोः! न शक्यमिदानीं भवता अस्यां वेलायां भाण्डागारिकाणां सकाशात् पदत्पदमपि गन्तुम् ?)

नायकः—(स्वगतम्) अत्रोपायश्चिन्तनीयः। (प्रविश्‍य पटलकहस्ता चेटिका)

चेटी—जअदु जअदु कुमारो। कुमार! कहिं अज्जुआ . . . अज्ज खु अज्जुआ केण वि कारणेण अअं विमणा कुमारं पेक्खामि त्ति भणंती राउळादो णिक्कंता। इमं च से देवीए धुपदेवीए ससरीरपरिभुत्तं वसाहणअं पसादीकिदं गह्‍णिअ कुमारस्स समीपे अज्जुअ . . . मण्णा आगदत्थिअ वत्तेअखोअि इमं जाव अज्जुअं अण्णोसामि। (निष्क्रान्ता।)

Showing 651 to 660 of 2002 verses